हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   Sanatana Dharm సనాతన ధర్మం
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Yuddha Kanda Sarga 93 – युद्धकाण्ड त्रिनवतितमः सर्गः (९३)


॥ सीताहननोद्यमनिवृत्तिः ॥

ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितं हतम् ।
आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ॥ १ ॥

युद्धे हतो महाराज लक्ष्मणेन तवात्मजः ।
विभीषणसहायेन मिषतां नो महाद्युतिः ॥ २ ॥

शूरः शूरेण सङ्गम्य सम्युगेष्वपरजितः ।
लक्ष्मणेन हतः शूरः पुत्रस्तु विबुधेन्द्रजित् ॥ ३ ॥

गतः स परमान्लोकान् शरैः सन्ताप्य लक्ष्मणम् ।
स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् ॥ ४ ॥

घोरमिन्द्रजितः सङ्ख्ये कश्मलं चाविशन्महत् ।
उपलभ्य चिरात्सञ्ज्ञां राजा राक्षसपुङ्गवः ॥ ५ ॥

पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः ।
हा राक्षसचमूमुख्य मम वत्स महारथ ॥ ६ ॥

जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः ।
ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि ॥ ७ ॥

मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि ।
अद्य वैवस्वतो राजा भूयो बहुमतो मम ॥ ८ ॥

येनाद्य त्वं महाबाहो सम्युक्तः कालधर्मणा ।
एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ॥ ९ ॥

यः कृते हन्यते भर्तुः स पुमान् स्वर्गमृच्छति ।
अद्य देवगणाः सर्वे लोकपालास्तथर्षयः ॥ १० ॥

हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः ।
अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना ॥ ११ ॥

एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे ।
अद्य नैरृतकन्यानां श्रोष्याम्यन्तःपुरे रवम् ॥ १२ ॥

करेणुसङ्घस्य यथा निनादं गिरिगह्वरे ।
यौवराज्यं च लङ्कां च रक्षांसि च परन्तप ॥ १३ ॥

मातरं मां च भार्यां च क्व गतोऽसि विहाय नः ।
मम नाम त्वया वीर गतस्य यमसादनम् ॥ १४ ॥

प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे ।
स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे ॥ १५ ॥

मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः ।
एवमादिविलापार्तं रावणं राक्षसाधिपम् ॥ १६ ॥

आविवेश महान्कोपः पुत्रव्यसनसम्भवः ।
प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः ॥ १७ ॥

दीप्तं सन्दीपयामासुर्घर्मेऽर्कमिव रश्मयः ।
ललाटे भ्रुकुटीभिश्च सङ्गताभिर्व्यारोचत ॥ १८ ॥

युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधिः ।
कोपाद्विजृम्भमाणस्य वक्त्राद्व्यक्तमभिज्वलन् ॥ १९ ॥

उत्पपात स भूयोऽग्निर्वृत्रस्य वदनादिव ।
स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः ॥ २० ॥

समीक्ष्य रावणो बुद्ध्या वैदेह्या रोचयद्वधम् ।
तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनाऽपि च ॥ २१ ॥

रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः ।
घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्छितम् ॥ २२ ॥

बभूव रूपं क्रुद्धस्य रुद्रस्येव दुरासदम् ।
तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्रबिन्दवः ॥ २३ ॥

दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ।
दन्तान्विदशतस्तस्य श्रूयते दशनस्वनः ॥ २४ ॥

यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव ।
कालाग्निरिव सङ्क्रुद्धो यां यां दिशमवैक्षत ॥ २५ ॥

तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे ।
तमन्तकमिव क्रुद्धं चराचरचिखादिषुम् ॥ २६ ॥

वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः ।
ततः परमसङ्क्रुद्धो रावणो राक्षसाधिपः ॥ २७ ॥

अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे ।
मया वर्षसहस्राणि चरित्वा दुश्चरं तपः ॥ २८ ॥

तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः ।
तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः ॥ २९ ॥

नासुरेभ्यो न देवेभ्यो भयं मम कदाचन ।
कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम् ॥ ३० ॥

देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः ।
तेन मामद्य सम्युक्तं रथस्थमिह सम्युगे ॥ ३१ ॥

प्रतीयात्कोऽद्य मामाजौ साक्षादपि पुरन्दरः ।
यत्तदाऽभिप्रसन्नेन सशरं कार्मुकं महत् ॥ ३२ ॥

देवासुरविमर्देषु मम दत्तं स्वयम्भुवा ।
अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम ॥ ३३ ॥

रामलक्ष्मणयोरेव वधाय परमाहवे ।
स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः ॥ ३४ ॥

समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत ।
प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः ॥ ३५ ॥

दीनो दीनस्वरान्सर्वांस्तानुवाच निशाचरान् ।
मायया मम वत्सेन वञ्चनार्थं वनौकसाम् ॥ ३६ ॥

किञ्चिदेव हतं तत्र सीतेयमिति दर्शितम् ।
तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः ॥ ३७ ॥

वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् ।
इत्येवमुक्त्वा सचिवान्खड्गमाशु परामृशत् ॥ ३८ ॥

उद्धृत्य गुणसम्पन्नं विमलाम्बरवर्चसम् ।
निष्पपात स वेगेन सभार्यः सचिवैर्वृतः ॥ ३९ ॥

रावणः पुत्रशोकेन भृशमाकुलचेतनः ।
सङ्क्रुद्धः खड्गमादाय सहसा यत्र मैथिली ॥ ४० ॥

व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः ।
ऊचुश्चान्योन्यमाश्लिष्य सङ्क्रुद्धं प्रेक्ष्य राक्षसाः ॥ ४१ ॥

अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः ।
लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः ॥ ४२ ॥

बहवः शत्रवश्चापि सम्युगेषु निपातिताः ।
त्रिषु लोकेषु रत्नानि भुङ्क्ते चाहृत्य रावणः ॥ ४३ ॥

विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि ।
तेषां सञ्जल्पमानानामशोकवनिकां गताम् ॥ ४४ ॥

अभिदुद्राव वैदेहीं रावणः क्रोधमूर्छितः ।
वार्यमाणः सुसङ्क्रुद्धः सुहृद्भिर्हितबुद्धिभिः ॥ ४५ ॥

अभ्यधावत सङ्क्रुद्धः खे ग्रहो रोहिणीमिव ।
मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता ॥ ४६ ॥

ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् ।
तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा ॥ ४७ ॥

निवार्यमाणं बहुशः सुहृद्भिरनुवर्तिनम् ।
सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत् ॥ ४८ ॥

यथाऽयं मामभिक्रुद्धः समभिद्रवति स्वयम् ।
वधिष्यति सनाथां मामनाथामिव दुर्मतिः ॥ ४९ ॥

बहुशश्चोदयामास भर्तारं मामनुव्रताम् ।
भार्या भव रमस्वेति प्रत्याख्यातो ध्रुवं मया ॥ ५० ॥

सोऽयं ममानुपस्थाने व्यक्तं नैराश्यमागतः ।
क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः ॥ ५१ ॥

अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ ।
मन्निमित्तमनार्येण समरेऽद्य निपातितौ ॥ ५२ ॥

अहो धिङ्मन्निमित्तोऽयं विनाशो राजपुत्रयोः ।
अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ ॥ ५३ ॥

विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः ।
हनूमतोऽपि यद्वाक्यं न कृतं क्षुद्रया मया ॥ ५४ ॥

यद्यहं तस्य पृष्ठेन तदा यायामनिन्दिता ।
नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती ॥ ५५ ॥

मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति ।
एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि ॥ ५६ ॥

सा हि जन्म च बाल्यं च यौवनं च महात्मनः ।
धर्मकार्यानुरूपं च रुदन्ती संस्मरिष्यति ॥ ५७ ॥

निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना ।
अग्निमारोक्ष्यते नूनमपो वाऽपि प्रवेक्ष्यति ॥ ५८ ॥

धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम् ।
यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते ॥ ५९ ॥

इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम् ।
रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् ॥ ६० ॥

एतस्मिन्नन्तरे तस्य अमात्यो बुद्धिमान् शुचिः ।
सुपार्श्वो नाम मेधावी राक्षसो राक्षसेश्वरम् ॥ ६१ ॥

निवार्यमाणं सचिवैरिदं वचनमब्रवीत् ।
कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज ॥ ६२ ॥

हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि ।
वेदविद्याव्रतस्नातः स्वकर्मनिरतः सदा ॥ ६३ ॥

स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर ।
मैथिलीं रूपसम्पन्नां प्रत्यवेक्षस्व पार्थिव ॥ ६४ ॥

त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज ।
अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम् ॥ ६५ ॥

कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ।
शूरो धीमान्रथी खड्गी रथप्रवरमास्थितः ।
हत्वा दाशरथिं रामं भवान्प्राप्स्यति मैथिलीम् ॥ ६६ ॥

स तद्दुरात्मा सुहृदा निवेदितं
वचः सुधर्म्यं प्रतिगृह्य रावणः ।
गृहं जगामाथ ततश्च वीर्यवान्
पुनः सभां च प्रययौ सुहृद्वृतः ॥ ६७ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिनवतितमः सर्गः ॥ ९३ ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.